जैसल्मेर् – सौवर्ण नगरम् (वास्तुविद्या नगरम्)
राजस्तथाने मरौ मध्ये जैसल्मेर् इति नाम एकं नगरं अस्ति। महरवल् जैसल् सिङ्हः इति नाम एक: राज्पुटः राजा आसीत् । राजा एतत् नगरं ११५६ वर्षे निषदतवान् । एतस्य नगरस्य उपनामन् सौवर्ण नगरम् । किमर्थम् इति चिन्तयति वा ? सर्वत्र पीतेन वर्णेन दृश्यसे। पीतः वारिवर्णक: उपयोग्य वास्तुविद्या आकृतत् । जैसल्मरस्य अर्थः जैसल्यस्य गिरिदुर्गं कथ्यते ।
वयं इन्टेर्सिटि एक्स्प्रेस् जयपुर्तः प्रातः ११.३० जैसल्मेरम् आप्तवन्तः । रैलस्थानके प्रथमदर्शने वैचित्र्य अलङ्कृत्य आसन्दः दृष्य विस्मितवन्तः।
जैसल् पलेस् होटल् :-
वयं “जैसल् पलेस् होटल्” वसितवन्तः । भोजनं कर्तुं इच्छन्ति चेत् कुत्रापि न गन्तुं आवश्यकम् | अत्र एव लब्यते | पाकशाला उपरि अस्ति । सूचि स्वीक्रित्य पाचकः प्रत्यग्राः पदार्थाः पक्ववान् । मध्याह्नभोजनं मट्टके अभवत् । रुचिः कथम् आवस्यकम् इति अपि वयम् उक्तवन्तः । यथा अस्मभ्यम् रुचिः उक्तवन्तः तथा एव सः भोजनं कृतवान्। भोजनं स्वादिष्ठं आसीत् ।
जैसल् पलेस् होटल्तः नगरान्तरं प्रबलं स्तापनं चलनेन दृष्टुं शक्यते | यन्त्रत्रिचक्रिकाया नावश्यकम् | बहवः स्थानं समीपम् अस्ति |
तस्मात् स्थानात् केवलं १०० मि. दूरं “नथ्मल् कि हवेलि” इति एकं स्थानं प्रथमं गतवन्तः । बहिर्भागः असाधारणः अस्ति। भूतलः अट्टः उपरि प्रथमः अट्टः अस्ति | प्रथमं अट्टं दृष्य अनुमतिं न दत्तवान् । अन्तः चित्रग्राहिणी न अनुमन्यते | केलिगृहम् इति उक्तवान् । परन्तु वैदेशिकं अनुमन्यते । किन्चित् समयं चिन्तित्वा प्रस्थितवन्तः। अन्तः गन्तुम् उचितं नास्ति। अतः वयं तस्मात् स्थानात् बहिः आगतवन्तः | सः वैदेशिकस्य धनाय करोति | १० निमेष बहिर्भागं ईक्षित्वा “पथोन् कि हवेलि” गतवन्तः|
एषा “पथोन् कि हवेलि” बहिष्टात् दृष्टवन्तः । शृङ्गारिन् चित्रिता वास्तुविद्या दृष्य अस्माकं मनः आनन्दानुभवन्तः| विस्तारः अतिरमणीयाः वेद्यः च दर्पणमयं रचनं एकस्मिन् छदे सुन्दराणि च सन्ति । राजस्थानस्य साम्पन्निक व्यपदृश्यते ।
गडसीसरः सरोवरः -:
गडसीसरः सरोवरः सूर्यास्तः समयं अभवत् । नौका स्वीक्रित्य वयं गडसीसरः सरोवरं अर्धघण्टा परिक्रामामः स्म । नाविकः सम्यक् नयनं कृतवान् । सरोवरे पर्याप्तं जलम् आसीत् । नौकायां अपरलोकं गत्य सुखसंस्पर्शम् आसीत् | शीतलवातः अस्मान् स्पृश्य अश्रमं दत्तवान् । पक्षिणाः कूजनं श्रुत्वा अस्माकं मनं शान्तिं प्राप्तवन्तः । अर्धघण्टा शीघ्रं गतवत् ।
सङ्ग्रहालयः रज्जुयन्त्रं च -:
अत्र राजस्थानस्य चरित्रं संस्कृतिः प्रकटीकरोति । एतत् दृष्ट्वा अनन्तरं रज्जुयन्त्रं प्रदर्शनं अभवत् । राजस्थानस्य वादकेन एकेन पाञ्चालिकेन प्रदर्शनं अभवत् । सम्यक् आसीत् परन्तु अस्माकम् अभिप्रायः द्वे अथवा तिस्रः पाञ्चालिकां उपयोग्य चेत् समीचीनं अभविष्यत् ।