साम् दून् मरुः (Sam Sand Dune) – जैसल्मेर्

यत्र पुष्पं तत्र भ्रमरः ।
यत्र मरवः तत्र पवनः।
यत्र यत्र मरुधन्वः तत्र तत्र चारु वैचित्र्यं |
मरुधन्वे चारु वैचित्र्यं खलु ? सर्वेभ्यः चिन्तयन्ति वा ?
चिन्तामास्तु चिन्तामास्तु | आवाम् वदामः |मरुधन्वः

खुरिः (Khuri) इति एकः ग्रामः जैसल्मेर् तः ५० कि.मि. दूरे अस्ति। अत्र मरै विमध्य साम् दून् मरुः (Sam Sand Dune) अस्ति । वसतिगृहात्  खुरिं सायङ्काले ५.३० आगतवन्तः। प्रथमः मरुः अनुभवं कथं भवति इति अस्माकम् चिन्तनम् । तत्र अस्माकं वस्तूणि कुटीरे स्थापितवन्तः। कुटीरस्य अन्तः शय्या च ह्रस्वं वातायनं च शौचालयः स्नान-गृहं च सौकर्य सन्ति । बहिः ४ – ५ उष्ट्राः अस्मभ्यं स्थापितवन्तः ।  चायं पीत्वा उष्ट्रस्य उपरि उपविश्य अस्माकं यात्रां आरब्ध कृतवन्तः। एकस्मिन्  उष्ट्रे द्वौ जनाः अनुमन्यते । आवाभ्याम् उष्ट्रः एव यविष्ठः आसीत् । गच्छन्  समये सः उष्ट्रः ईङ्खयति स्म । पञ्चदशनिमेषेषु साम् दून् प्राप्तवन्तः ।

पवनः प्रहत्य प्रहत्य वालुका उत्पेत्य उत्पेत्य सुन्दरं चित्रलेखनं उद्भवति । इदानीम् उत्तरं ज्ञातं वा |  प्रकृत्याः लीलां दृश्य उल्लसता अनुभवन्ति । आकाशे नारङ्गः वर्णः सूर्यः शनैः शनैः आगम्य तत्र स्थायिन्  क्रीडिन् जनाः पश्य कुतूहली अभवत् । एते जनाः किमर्थं आगतवन्तः इति सः चिन्तितवान् । सर्वे जनाः सूर्यं दृश्य उल्लसिता अभवत् । सर्वे जनाः “सूर्यास्तः समयम् अभवत् सूर्यास्तः समयम् अभवत् ” इति उत्साहेन उत्प्लवनं कृतवन्तः। एतत् श्रुत्वा सूर्यः आनन्दं अभवत् । सायङ्काले ७ समये सूर्यः मरवे चुम्बनं दत्वा  शनैः शनैः गतवान् ।

प्रकृत्याः लीलां सर्वं दृश्य द्वे नेत्रे अपर्याप्तम् । सहस्र नेत्रानि आवश्यकम् । वयं भाग्यवन्तः । तदनन्तरं  प्रत्यागतवन्तः । अल्पाहारं स्वीकृत्य राजस्थानस्य पारम्परिकं कार्याक्रमाः दृष्टवन्तः। द्वे नर्तक्यौ  नटनं कृतवत्यौ । एका नर्तकी ५-६ घटान् शिरस्य उपरि स्थापयित्वा सम्यक् नटनं कृतवती । एकः घटः अपि न पतितवान् । पुरुषाः राजस्थानस्य वाद्येन वादितवन्तः । कार्याक्रमाः समाप्तम् अनन्तरं रात्रौ स्थानिकं भोजनं खादितवन्तः । अस्माकं सङ्घः  सर्वे वसतिगृहं गतवन्तः । अस्माकं कुटुम्बं एव कुटीरे वसितवन्तः । रात्रौ विद्युज्जनकं निर्वाप्य दीपः दत्तवन्तः। आकाशे नक्षत्राणि शोभन्ते। किञ्चित् समयं दृष्टवन्तः। एकदश वादने निद्रां कृतवन्तः। समिपे पटमण्डपे कश्चित् जनाः वसितवन्तः। प्रातः काले ५ समये आवाम् उत्थाय वातायनम् उद्घाटयावः स्म । इतस्ततः सञ्चरन् कोऽपि न दृष्टः । चित्रग्राहिणी स्वीकृत्य आवाम् अस्माकं कुटुम्बैः सह किञ्चित् दूरं चलितवन्तः। अतीव शीतलः आसीत् । सूर्योदयात् प्राक् नीललोहितेन वर्णेन आकाशे अलङ्कृत्वान् । सूर्योदयः समयम् अभवत् ।  मन्दं मन्दम् उदितवान् । उदित्य  प्रकाशेन मरौ उपरि प्रवेशितवान्  | मरुः कनकमयः अभवत् । एषः क्षणः अधिकतम स्मरणशक्तिः नित्या अभवत्।

अल्पाहरं स्वीकृत्य अस्माकं वसतिगृहं  प्रति आगतवन्तः ।

कुटीरेउष्ट्रःनर्तकीनीललोहितेन

Leave a Reply

Your email address will not be published. Required fields are marked *