तमिलुनाडुराज्यस्य धर्मपुरे मण्डले पञ्चपल्लि -जलबन्ध: अस्ति | जलबन्ध: बेङ्गलूरु नगरतः ८५ कि.मि. दूरे अस्ति | सः चिन्नार् नद्याः निर्मितः | परितः सुन्दरेण हरितेन गिरिणा शोभते | सूर्येण नीलेन मेघेन च प्रशान्तः जलबन्ध: रमणीयः वर्तते |
आवां एतेन मार्गेण गतवन्तः – बेङ्गलूरु -> अत्तिबेले अनेकाल् रोड् -> टि.वि.यस् यन्त्रशाला -> मधुगिरि -> देन्कनिकोट्टै –> पञ्चपल्लि-जलबन्ध:
अत्तिबेले अनेकाल् मार्गे टि.वि.यस् यन्त्रशालापर्यन्तं मार्गः सम्यक् नास्ति | मार्गे अधिकानि यानानि न दृश्यन्ते | रमणीयां प्रकृतिं दृष्ट्वा आवयोः मनः आनन्देन पूरितम् । आवां मालयानिलं आस्वादयन्तौ यानं चालितवन्तौ | आवां लघु जलप्रपातं दृष्ट्वा छायाचित्रार्थं यानं स्थगितवन्तौ | आवां विस्मितौ यत् मालाकरं त्यक्त्वा तत्र अन्यः कोऽपि न दृष्टः | किञ्चित् समयं भ्रमणं कृत्वा छायाचित्रं स्वीकृत्य विश्रान्तिसुखमनुभूतवन्तौ ।
सूचना-: