पञ्चपल्लि जलबन्ध:

तमिलुनाडुराज्यस्य धर्मपुरे मण्डले पञ्चपल्लि -जलबन्ध: अस्ति | जलबन्ध: बेङ्गलूरु नगरतः  ८५ कि.मि. दूरे अस्ति | सः चिन्नार् नद्याः निर्मितः | परितः सुन्दरेण  हरितेन गिरिणा शोभते  |  सूर्येण नीलेन मेघेन च प्रशान्तः जलबन्ध: रमणीयः वर्तते |

आवां एतेन मार्गेण गतवन्तः  – बेङ्गलूरु -> अत्तिबेले अनेकाल् रोड् -> टि.वि.यस्  यन्त्रशाला -> मधुगिरि  -> देन्कनिकोट्टै  –> पञ्चपल्लि-जलबन्ध:

अत्तिबेले अनेकाल् मार्गे टि.वि.यस्  यन्त्रशालापर्यन्तं मार्गः सम्यक् नास्ति | मार्गे अधिकानि यानानि न दृश्यन्ते  |  रमणीयां प्रकृतिं  दृष्ट्वा आवयोः मनः आनन्देन पूरितम् । आवां मालयानिलं आस्वादयन्तौ  यानं चालितवन्तौ  | आवां लघु जलप्रपातं दृष्ट्वा छायाचित्रार्थं  यानं स्थगितवन्तौ  | आवां विस्मितौ यत् मालाकरं  त्यक्त्वा तत्र अन्यः कोऽपि न दृष्टः  |  किञ्चित् समयं भ्रमणं कृत्वा छायाचित्रं स्वीकृत्य विश्रान्तिसुखमनुभूतवन्तौ ।

जलबन्ध:

तन्तुवाय

जलप्रपातं

मेघ:

सूचना-:

Leave a Reply

Your email address will not be published. Required fields are marked *