नन्दीश्वरतीर्थ देवालयः

नन्दिमुखात् निरन्तरं प्रवहत् जलं भवन्तः कुत्रापि दृष्टवन्तः किम् ? तादृशं किञ्चन स्थानम् अस्ति | तत्र कुत्र ? इति भवन्तः चिन्तयन्ति किम् ? भवन्तः आवाभ्यां साकम्  आगच्छन्तु | दर्श भावः | एतत् स्थानं बेङ्गलूरु नगरे मल्लेश्वरे कस्मिंश्चित् देवालये अस्ति | एषः शिवदेवालयः | अत्र अन्यः अपि विशेषः अस्ति |

अन्येषु देवालयेषु नन्दीं शिवलिङ्गस्य पुरतः भवति | अत्र तु शिवलिङ्गस्य उपरि अस्ति ! नन्दिमुखात्  सर्वदा शिवलिङ्गस्य उपरि जलं प्रवहत् भवति | वयं सर्वे जानिमः यत् शिवः अभिषेक प्रियः इति | तत् सत्यमेव | एतस्य वाहनभूतात् नन्दीश्वरात् एव सः अत्र सर्वदा सभिषेकं लभते | तत् दृष्टवतोः आवयोः मनः आनन्देन शान्त्या च पूर्णम् अभवत् |

नन्दीश्वर: तीर्थ देवालयः

नन्दिनन्दीश्वर: तीर्थ देवालयः प्रवेशःNandhi Entrance

दर्शनस्य समयः

प्रातः ७:३०  – १२:०० पर्यन्तम्
सायङ्काल ५:०० – ८:३० पर्यन्तम्

 

Leave a Reply

Your email address will not be published. Required fields are marked *